हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   Sanatana Dharm సనాతన ధర్మం
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Kishkindha Kanda Sarga 31 – किष्किन्धाकाण्ड एकत्रिंशः सर्गः (३१)


॥ लक्ष्मणक्रोधः ॥

स कामिनं दीनमदीनसत्त्वं
शोकाभिपन्नं समुदीर्णकोपम् ।
नरेन्द्रसूनुर्नरदेवपुत्रं
रामानुजः पूर्वजमित्युवाच ॥ १ ॥

न वानरः स्थास्यति साधुवृत्ते
न मंस्यते कर्मफलानुषङ्गान् ।
न भोक्ष्यते वानरराज्यलक्ष्मीं
तथा हि नाभिक्रमतेऽस्य बुद्धिः ॥ २ ॥

मतिक्षयाद्ग्राम्यसुखेषु सक्त-
-स्तव प्रसादाप्रतिकारबुद्धिः ।
हतोऽग्रजं पश्यतु वीर तस्य
न राज्यमेवं विगुणस्य देयम् ॥ ३ ॥

न धारये कोपमुदीर्णवेगं
निहन्मि सुग्रीवमसत्यमद्य ।
हरिप्रवीरैः सह वालिपुत्रो
नरेन्द्रपत्न्या विचयं करोतु ॥ ४ ॥

तमात्तबाणासनमुत्पतन्तं
निवेदितार्थं रणचण्डकोपम् ।
उवाच रामः परवीरहन्ता
स्ववेक्षितं सानुनयं च वाक्यम् ॥ ५ ॥

न हि वै त्वद्विधो लोके पापमेवं समाचरेत् ।
पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः ॥ ६ ॥

नेदमद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण ।
तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च सङ्गतम् ॥ ७ ॥

सामोपहितया वाचा रूक्षाणि परिवर्जयन् ।
वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये ॥ ८ ॥

सोऽग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः ।
प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा ॥ ९ ॥

ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः ।
लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः ॥ १० ॥

शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः ।
प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव ॥ ११ ॥

यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् ।
बृहस्पतिसमो बुद्ध्या मत्त्वा रामानुजस्तथा ॥ १२ ॥

कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः ।
प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा ॥ १३ ॥

सालतालाश्वकर्णांश्च तरसा पातयन् बहून् ।
पर्यस्यन् गिरिकूटानि द्रुमानन्यांश्च वेगतः ॥ १४ ॥

शिलाश्च शकलीकुर्वन् पद्भ्यां गज इवाशुगः ।
दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद्द्रुतम् ॥ १५ ॥

तामपश्यद्बलाकीर्णां हरिराजमहापुरीम् ।
दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसङ्कटे ॥ १६ ॥

रोषात् प्रस्फुरमाणोष्ठः सुग्रीवं प्रति लक्ष्मणः ।
ददर्श वानरान् भीमान् किष्किन्धाया बहिश्चरान् ॥ १७ ॥

तं दृष्ट्वा वानराः सर्वे लक्ष्मणं पुरुषर्षभम् ।
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् ॥ १८ ॥

जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे ।
तान् गृहीतप्रहरणान् हरीन् दृष्ट्वा तु लक्ष्मणः ॥ १९ ॥

बभूव द्विगुणं क्रुद्धो वह्निन्धन इवानलः ।
तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवङ्गमाः ॥ २० ॥

कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः ।
ततः सुग्रीवभवनं प्रविश्य हरिपुङ्गवाः ॥ २१ ॥

क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन् ।
तारया सहितः कामी सक्तः कपिवृषो रहः ॥ २२ ॥

न तेषां कपिवीराणां शुश्राव वचनं तदा ।
ततः सचिवसन्दिष्टा हरयो रोमहर्षणाः ॥ २३ ॥

गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा ।
नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः ॥ २४ ॥

सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः ।
दशनागबलाः केचित्केचिद्दशगुणोत्तराः ॥ २५ ॥

केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ।
कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः ॥ २६ ॥

अपश्यल्लक्ष्मणः क्रुद्धः किष्कन्धां तां दुरसदाम् ।
ततस्ते हरयः सर्वे प्राकारपरिघान्तरात् ॥ २७ ॥

निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा ।
सुग्रीवस्य प्रमादं च पूर्वजस्यार्थमात्मवान् ॥ २८ ॥

बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः ।
स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः ॥ २९ ॥

बभूव नरशार्दूलः सधूम इव पावकः ।
बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान् ॥ ३० ॥

स्वतेजोविषसङ्घातः पञ्चास्य इव पन्नगः ।
तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम् ॥ ३१ ॥

समासाद्याङ्गदस्त्रासाद्विषादमगमद्भृशम् ।
सोऽङ्गदं रोषताम्राक्षः सन्दिदेश महायशाः ॥ ३२ ॥

सुग्रीवः कथ्यतां वत्स ममागमनमित्युत ।
एष रामानुजः प्राप्तस्त्वत्सकाशमरिन्दमः ॥ ३३ ॥

भ्रातुर्व्यसनसन्तप्तो द्वारि तिष्ठति लक्ष्मणः ।
तस्य वाक्ये यदि रुचिः क्रियतां साधु वानर ॥ ३४ ॥

इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमिदं मम ।
लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत् ।
पितुः समीपमागम्य सौमित्रिरयमागतः ॥ ३५ ॥

अथाङ्गदस्तस्य वचो निशम्य
सम्भ्रान्तभावः परिदीनवक्त्रः ।
निर्गत्य तूर्णं नृपतेस्तरस्वी
ततः रुमायाश्चरणौ ववन्दे ॥ ३६ ॥

सङ्गृह्य पादौ पितुरग्र्यतेजा
जग्राह मातुः पुनरेव पादौ ।
पादौ रुमायाश्च निपीडयित्वा
निवेदयामास ततस्तमर्थम् ॥ ३७ ॥

स निद्रामदसंवीतो वानरो न विबुद्धवान् ।
बभूव मदमत्तश्च मदनेन च मोहितः ॥ ३८ ॥

ततः किलकिलां चक्रुर्लक्ष्मणं प्रेक्ष्य वानराः ।
प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः ॥ ३९ ॥

ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम् ।
सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः ॥ ४० ॥

तेन शब्देन महता प्रत्यबुध्यत वानरः ।
मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः ॥ ४१ ॥

अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ ।
मन्त्रिणौ वानरेन्द्रस्य सम्मतौदारदर्शिनौ ॥ ४२ ॥

प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः ।
वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः ॥ ४३ ॥

प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः ।
आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् ॥ ४४ ॥

सत्यसन्धौ महाभागौ भ्रातरौ रामलक्ष्मणौ ।
वयस्यभावं सम्प्राप्तौ राज्यार्हौ राज्यदायिनौ ॥ ४५ ॥

तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः ।
यस्य भीताः प्रवेपन्तो नादान् मुञ्चन्ति वानराः ॥ ४६ ॥

स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः ।
व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात् ॥ ४७ ॥

अयं च दयितो राजंस्तारायास्तनयोऽङ्गदः ।
लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयाऽनघ ॥ ४८ ॥

सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान् ।
वानरान्वानरपते चक्षुषा निर्दहन्निव ॥ ४९ ॥

तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः सह बन्धुभिः ।
गच्छ शीघ्रं महाराज रोषो ह्यस्य निवर्त्यताम् ॥ ५० ॥

यदाह रामो धर्मात्मा तत्कुरुष्व समाहितः ।
राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः ॥ ५१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥


www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.